अथ चाक्षुषोपनिषद् ॐ यत्सप्तभूमिकाविद्यावेद्यानन्दकलेवरम् । विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य मम चक्षूरोगनिवृत्तये जन्मान्तरितकृतपापयातायामत्वदोषपरिहारद्वारा अन्धत्वाविनाशार्थं दूरदृष्टिप्राप्तये श्रीसूर्यनारायणप्रीत्यर्थम् उदकाभिमन्त्रणप्राशनपूर्वकं पाठं (पाठान्) करिष्ये ॥ ॐ अथ ह साङ्कृतिर्भवानादित्यलोकं जगाम । तमादित्यं नत्वा चाक्षुष्मतीविद्यया तमस्तुवत् ॥ ॐ अथातश्चाक्षुषीं पठितां सिद्धां विद्यां चक्षुरोगहरां व्याख्यास्यामो यया चक्षूरोगाः सर्वतो नश्यन्ति चक्षुतो दीप्तिर्भवतीति ॥ ॐ अस्याश्चाक्षुषीविद्याया अहिर्बुध्न्यऋषिर्गायत्री छन्दः । श्रीसूर्यो देवता चक्षूरोगनिवृत्तये पाठे (जपे) विनियोगः ॥ ॐ चक्षुश्च चक्षुश्च चक्षुस्तेजः स्थिरो भव । मां पाहि मां पाहि । त्वरितं चक्षूरोगान् शमय शमय । मम जातरूपं तेजो दर्शय दर्शय । यथाऽहम् अन्धो न स्यां तथा कल्पय कल्पय । कल्याणं कुरु कुरु । यानि यानि मम पूर्वजन्मोपार्जितानि चक्षुःप्रतिरोधकदुष्कृतानि तानि सर्वाणि निर्मूलय निर्मूलय ॥ ॐ नमः चक्षुस्तेजोदात्रे दिव्याय भास्कराय । ॐ नमः कल्याणकरायामृताय । ॐ नमः श्रीसूर्याय । ॐ नमो भगवते श्रीसूर्यायाक्षितितेजसे नमः । ॐ खेचराय नमः । ॐ महासेनाय नमः । ॐ महते नमः । ॐ तमसे नमः । ॐ रजसे नमः । ॐ सत्त्वाय नमः । ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । उष्णो भगवाञ्छुचिरुपः । हंसो भगवाञ्छुचिरुपः ॥ ॐ विश्वरूपं घृणिं जातवेदसं हिरण्मयं पुरुषं ज्योतीरुपं तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः पुरुषः प्रजानामुदयत्येष सूर्यः ॥ ॐ नमो भगवते श्रीसूर्यायादित्यायाक्षितेजसेऽहोऽवाहिनि वाहिनि स्वाहेति । एवं चाक्षुष्मतीविद्यया स्तुतः श्रीसूर्यनारायणः सुप्रीतोऽब्रवीत् । य इमां चाक्षुष्मतीं विद्यां ब्राह्मणो नित्यमधीते । न तस्याक्षिरोगो भवति । न तस्य कुलेऽन्धो भवति । अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वाऽथ विद्यासिद्धिर्भवति । य एवं वेद स महान् भवतीति ॥ ॐ वयः सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । अप ध्वान्तमूर्णु हि पूधिं चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥ ॐ पुण्डरीकाक्षाय नमः । ॐ पुष्करेक्षणाय नमः । ॐ अमलेक्षणाय नमः । ॐ कमलेक्षणाय नमः । ॐ विश्वरुपाय नमः । ॐ महाविष्णवे नमः । ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति चाक्षुषोपनिषत् समाप्ता ॥
चाक्षुषोपनिषद्
श्री सूर्यनारायण · स्तोत्र
परिचय एवं महत्व
चाक्षुषोपनिषद् (श्री सूर्यनारायण) सनातन परंपरा का एक अत्यंत श्रद्धापूर्ण पाठ है। स्तोत्र के अंतर्गत नियमित रूप से इसका पाठ करने से मन को शांति और आध्यात्मिक ऊर्जा प्राप्त होती है।
पाठ की विधि
प्रातः या सायंकाल स्नान के पश्चात स्वच्छ आसन पर बैठकर श्री सूर्यनारायण के समक्ष दीपक प्रज्वलित करें और शुद्ध उच्चारण के साथ चाक्षुषोपनिषद् का पाठ करें।
पाठ के लाभ
भक्ति भाव से किया गया यह पाठ मानसिक एकाग्रता बढ़ाता है और घर-परिवार में सकारात्मक वातावरण का संचार करता है।