← श्री लक्ष्मी संग्रह पर वापस जाएं

श्रीलक्ष्मीस्तोत्र

श्री लक्ष्मी · स्तोत्र

परिचय एवं महत्व

श्रीलक्ष्मीस्तोत्र (श्री लक्ष्मी) सनातन परंपरा का एक अत्यंत श्रद्धापूर्ण पाठ है। स्तोत्र के अंतर्गत नियमित रूप से इसका पाठ करने से मन को शांति और आध्यात्मिक ऊर्जा प्राप्त होती है।

श्रीलक्ष्मीस्तोत्रम् श्रीगणेशाय नमः ॥ जय पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये । जय मातर्महालक्ष्मि संसारार्णवतारिणि ॥१॥ महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि । हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥२॥ पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे । सर्वभूतहितार्थाय वसुवृष्टिं सदा कुरु ॥३॥ जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे । दयावति नमस्तुभ्यं विश्वेश्वरि नमोऽस्तु ते ॥४॥ नमः क्षीरार्णवसुते नमस्त्रैलोक्यधारिणि । वसुवृष्टे नमस्तुभ्यं रक्ष मां शरणागतम् ॥५॥ रक्ष त्वं देवदेवेशि देवदेवस्य वल्लभे । दारिद्र्यात्राहि मां लक्ष्मि कृपां कुरु ममोपरि ॥६॥ नमस्त्रैलोक्यजननि नमस्त्रैलोक्यपावनि । ब्रह्मादयो नमस्ते त्वां जगदानंददायिनि ॥७॥ विष्णुप्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते । आर्तिहंति नमस्तुभ्यं समृद्धिं कुरु मे सदा ॥८॥ अब्जवासे नमस्तुभ्यं चपलायै नमो नमः । चंचलायै नमस्तुभ्यं ललितायै नमो नमः ॥९॥ नमो प्रद्युम्नजननि मातस्तुभ्यं नमो नमः । परिपालय भो मातर्मां तुभ्यं शरणागतम् ॥१०॥ शरण्ये त्वां प्रपन्नोऽस्मि कमले कमलालये । त्राहि त्राहि महालक्ष्मि परित्राणपरायणे ॥११॥ पांडित्यं शोभते नैव न शोभंति गुणा नरे । शीलत्वं नैव शोभंते महालक्ष्मि त्वया विना ॥१२॥ तावद्विराजते रूपं तावच्छीलं विराजते । तावद्गुणा नराणां च यावल्लक्ष्मीः प्रसीदति ॥१३॥ लक्ष्मि त्वयालंकृतमानवाये पापैर्विमुक्ता नृपलोकमान्याः । गुणैर्विहीना गुणिनो भवंति दुःशीलिनः शीलवतां वरिष्ठाः ॥१४॥ लक्ष्मीर्भूषयते रूपं लक्ष्मीर्भूषयते कुलम् । लक्ष्मीर्भूषयते विद्यां सर्वाल्लक्ष्मीर्विशिष्यते ॥१५॥ त्वद्गुणकीर्तनेन कमलाभूर्यात्यलं जिह्वातां । रुद्राद्या रविचंद्रदेवपतयो वक्तुं च नैव क्षमा । अस्माभिस्तव रूपलक्षणगुणान् वक्तुं कथं शक्यते । मातर्मां परिपाहि विश्वजनिनि कृत्वा ममेष्टं ध्रुवम् ॥१६॥ दैन्यार्तिभीतं भवतापपीडितं धनैर्विहीनं तव पार्श्वमागतम् । कृपानिधित्वान्मम लक्ष्मि सत्वरं धनप्रदानाद्धुनायकं कुरू ॥१७॥ मां विलोक्य जननि हरिप्रिये निर्धनं तव समीपमागतम् । देहि मे झटिति लक्ष्मि कराग्रं वत्स कांचनवरान्नमद्भुतम् ॥१८॥ त्वमेव जननि लक्ष्मीः पिता लक्ष्मी त्वमेव च । भ्राता त्वं च सखा लक्ष्मी विद्या लक्ष्मी त्वमेव च ॥१९॥ त्राहि त्राहि महालक्ष्मि त्राहि त्राही सुरेश्वरि । त्राहि त्राहि जगन्मातर्दारिद्र्यात् त्राहि वेगतः ॥२०॥ नमस्तुभ्यं जगत्धात्रि नमस्तुभ्यं नमो नमः । धर्माधारे नमस्तुभ्यं नमः संपत्तिदायिनी ॥२१॥ दरिद्रार्णवमग्नोऽहं विमग्नोऽहं रसातले । मज्जंतं मां करे धृत्वा उद्धर त्वं रमे द्रुतम् ॥२२॥ किं लक्ष्मि बहुनोक्तेन जल्पितेन पुनः पुनः । अनन्ये शरणं नास्ति सत्यं सत्यं हरिप्रिये ॥२३॥ एतच्छ्रुत्वागस्तिवाक्यं हृष्यमाणा हरिप्रिया । उवाच मधुरां वाणीं तुष्टाहं तव सर्वदा ॥२४॥ लक्ष्मीरुवाच । यत्त्वयोक्तमिदं स्तोत्रं यः पठिष्यति मानवः । शृणोशेति च महाभागस्तस्याहं वशवर्तिनी ॥२५॥ नित्यं पठति यो भक्त्या त्वल्लक्ष्मीस्तस्य नश्यति । रणश्च नश्यते तीव्रं वियोगं नैव पश्यति ॥२६॥ यः पठेत्प्रातरुत्थाय श्रद्धाभक्तिसमन्वितः । गृहे तस्य सदा स्थास्ये नित्यं श्रीपतिना सह ॥२७॥ सुखसौभाग्यसंपन्नो मनस्वी बुद्धिमान् भवेत् । पुत्रवान् गुणवान् श्रेष्ठो भोगभोक्ता च मानवः ॥२८॥ इदं स्तोत्रं महत्पुण्यं लक्ष्म्यगस्तिप्रकीर्तितम् । विष्णुप्रसादजननं चतुर्वर्गफलप्रदम् ॥२९॥ राजद्वारे यशश्चैव शत्रोश्चैव पराजयः । भूतप्रेतपिशाचानां व्याघ्राणां नभयं तथा ॥३०॥ न शस्त्रानलतो योधाद्भयं तस्य प्रजायते । दुर्वृत्तानां च पापानां बहुहानिकरं परम् ॥३१॥ मंदुराकरिकालासु गवां गोष्ठे समाहितः । पठेत्तद्दोषशांत्यर्थं महापातकनाशनम् ॥३२॥ सर्वसौख्यकरं नृणामायुरारोग्यदं तथा । अगस्तिमुनिना प्रोक्तं प्रजानां हितकाम्यया ॥३३॥ इत्यागस्तिविरचितं श्रीलक्ष्मीस्तोत्रं संपूर्णम् ॥

← पिछला पाठ सभी श्री लक्ष्मी पाठ अगला पाठ →

पाठ की विधि

प्रातः या सायंकाल स्नान के पश्चात स्वच्छ आसन पर बैठकर श्री लक्ष्मी के समक्ष दीपक प्रज्वलित करें और शुद्ध उच्चारण के साथ श्रीलक्ष्मीस्तोत्र का पाठ करें।

पाठ के लाभ

भक्ति भाव से किया गया यह पाठ मानसिक एकाग्रता बढ़ाता है और घर-परिवार में सकारात्मक वातावरण का संचार करता है।