नित्यकर्म — मंगलाचरण श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । श्रीसोमेश्वराय नमः । श्रीविश्वेश्वराय नमः ॥ श्रीकुलदेवताभ्यो नमः ॥ करदर्शन व भूमिवन्दन कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती । करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥१॥ समुद्रवसने देवि पर्वतस्तनमण्डले । विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥२॥ प्रातःस्मरण वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥१॥ शांताकारं भुजगशयनं पद्मनाभं सुरेशम् । विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् । वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥२॥ मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् । यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥३॥ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुः साक्षात्परब्रह्म तस्मै श्रीगुरवे नमः ॥४॥ ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम् । द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीःसाक्षिभूतं । भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥५॥ पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठरः । पुण्यश्लोको विदेहश्च पुण्यश्लोको जनार्दनः ॥६॥ कर्कोटकस्य नागस्य दमयन्त्या नलस्य च । ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् ॥७॥ अश्वत्थामा बलिर्व्यासो हनुमांश्च विभीषणः । कृपः परशुरामश्च सप्तैते चिरजीविनः ॥८॥ बलिर्विभीषणो भीष्मो प्रल्हादो नारदो ध्रुवः । षडेते वैष्णवास्तेषां स्मरणं पापनाशनम् ॥९॥ अहल्या द्रौपदी सीता तारा मन्दोदरी तथा । पंचकन्यां स्मरेन्नित्यं महापातकनाशनम् ॥१०॥ लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥११॥ स्नान करताना म्हणावयाचे श्लोक गङ्गे च यमुने चैव गोदावरी सरस्वती । नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ गङ्गा गंगेति यो ब्रूयात् योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ गङ्गाद्वारे कुशावर्ते बिल्वके नीलपर्वते । स्नात्वा कनखले तीर्थे पुनर्जन्म न विद्यते ॥ पापोऽहं पापकर्माऽहं पापात्मा पापसंभवः । त्राहि मां कृपया गंगे सर्वपापहरा भव ॥ सूर्यनमस्कार आचम्य । प्राणायामं कृत्वा । अद्य पूर्वोच्चरितवर्तमान एवंगुणविशेषणविशिष्टायां शुभपुण्यतिथौ मम आत्मनः श्रुतिस्मृति-पुराणोक्तफलप्राप्त्यर्थं श्रीसवितृसूर्यनारायणप्रीत्यर्थं नमस्काराख्यं कर्म करिष्ये । अथ ध्यानम् । ध्येयः सदा सवितृमण्डलमध्यवर्ती । नारायणः सरसिजासनसन्निविष्टः । केयूरवान् मकरकुण्डलवान् किरीटी । हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥ १ ॐ मित्राय नमः २ ॐ रवये नमः ३ ॐ सूर्याय नमः ४ ॐ भानवे नमः ५ ॐ खगाय नमः ६ ॐ पूष्णे नमः ७ ॐ हिरण्यगर्भाय नमः ८ ॐ मरीचये नमः ९ ॐ आदित्याय नमः १० ॐ सवित्रे नमः ११ ॐ अर्काय नमः १२ ॐ भास्कराय नमः । मित्ररविसूर्यभानुखगपूषहिरण्यगर्भमरीच्यादित्यसवित्रर्कभास्करेभ्यो नमो नमः । आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने । जन्मान्तरसहस्रेषु दारिद्र्यं नोपजायते ॥१॥ अकालमृत्युहरणं सर्वव्याधिविनाशनम् । सूर्यपादोदकं तीर्थं जठरे धारयाम्यहम् ॥२॥ अनेन नमस्काराख्येन कर्मणा श्रीसवितृसूर्यनारायणः प्रीयताम् । तुलसीपूजन तुलसी श्रीसखि शुभे पापहारिणि पुण्यदे । नमस्ते नारदनुते नारायणि मनःप्रिये ॥१॥
मंगलाचरण, करदर्शन, प्रातःस्मरण, सूर्यनमस्कार, तुलसीपूजन
नित्यकर्म · मंगलाचरण व प्रातःस्मरण
परिचय एवं महत्व
मंगलाचरण, करदर्शन, प्रातःस्मरण, सूर्यनमस्कार, तुलसीपूजन (नित्यकर्म) सनातन परंपरा का एक अत्यंत श्रद्धापूर्ण पाठ है। मंगलाचरण व प्रातःस्मरण के अंतर्गत नियमित रूप से इसका पाठ करने से मन को शांति और आध्यात्मिक ऊर्जा प्राप्त होती है।
पाठ की विधि
प्रातः या सायंकाल स्नान के पश्चात स्वच्छ आसन पर बैठकर नित्यकर्म के समक्ष दीपक प्रज्वलित करें और शुद्ध उच्चारण के साथ मंगलाचरण, करदर्शन, प्रातःस्मरण, सूर्यनमस्कार, तुलसीपूजन का पाठ करें।
पाठ के लाभ
भक्ति भाव से किया गया यह पाठ मानसिक एकाग्रता बढ़ाता है और घर-परिवार में सकारात्मक वातावरण का संचार करता है।