← पुरुषसूक्त संग्रह पर वापस जाएं

श्रीपुरुषसूक्त

पुरुषसूक्त · सूक्त

परिचय एवं महत्व

श्रीपुरुषसूक्त (पुरुषसूक्त) सनातन परंपरा का एक अत्यंत श्रद्धापूर्ण पाठ है। सूक्त के अंतर्गत नियमित रूप से इसका पाठ करने से मन को शांति और आध्यात्मिक ऊर्जा प्राप्त होती है।

पुरुषसूक्तम् श्रीगणेशाय नमः ॥ अथ पुरुषसूक्तम् ॥ षोडशनारायणः पौरुषमनुष्टुभं त्रिष्टुबंतम् ॥ अभिषेके विनियोगः ॥ हरिः ॐ ॥ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वा त्यतिष्ठद्दशांगुलम् ॥१॥ पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥२॥ एतावानस्य महिमातो ज्यायांश्च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥ त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः । ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥४॥ तस्माद्विराळजायत विराजो अधि पूरुषः । स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥५॥ यत्पुरुषेण हविषा देवा यज्ञमतन्वत । वसंतो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥६॥ तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः । तेन देवा अयजन्त साध्या ऋषयश्च ये ॥७॥ तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् । पशूंस्ताꣳश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये ॥८॥ तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे । छंदांसि जज्ञिरे तस्मादजुस्तस्मादजायत ॥९॥ तस्मादश्वा अजायन्त ये के चोभयादतः । गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥१०॥ यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते ॥११॥ ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥१२॥ चंद्रमा मनसो जातश्चक्षोः सूर्यो अजायत । मुखादिंद्रश्चाग्निश्च प्राणाद्वायुरजायत ॥१३॥ नाभ्या आसीदंतरिक्षं शीर्ष्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन् ॥१४॥ सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः । देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ॥१५॥ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः संति देवाः ॥१६॥

सभी पुरुषसूक्त पाठ

पाठ की विधि

प्रातः या सायंकाल स्नान के पश्चात स्वच्छ आसन पर बैठकर पुरुषसूक्त के समक्ष दीपक प्रज्वलित करें और शुद्ध उच्चारण के साथ श्रीपुरुषसूक्त का पाठ करें।

पाठ के लाभ

भक्ति भाव से किया गया यह पाठ मानसिक एकाग्रता बढ़ाता है और घर-परिवार में सकारात्मक वातावरण का संचार करता है।