← श्री गणेश संग्रह पर वापस जाएं

श्रीगणपत्यथर्वशीर्ष

श्री गणेश · प्रमुख स्तोत्रे व कवच

परिचय एवं महत्व

श्री गणपति अथर्वशीर्ष अथर्ववेद का एक प्रमुख उपनिषद है, जिसमें भगवान गणेश को परब्रह्म के रूप में वंदना की गई है। संकष्टी चतुर्थी और गणेशोत्सव में इसका विशेष पाठ किया जाता है।

श्रीगणपत्यथर्वशीर्षम् हरि: ॐ नमस्ते गणपतये। त्वमेव प्रत्यक्षं तत्त्वमसि। त्वमेव केवलं कर्तासि। त्वमेव केवलं धर्तासि। त्वमेव केवलं हर्तासि। त्वमेव सर्वं खल्विदं ब्रह्मासि। त्वं साक्षादात्मासि नित्यम्॥१॥ ऋतं वच्मि। सत्यं वच्मि॥२॥ अव त्वं माम्। अव वक्तारम्। अव श्रोतारम्। अव दातारम्। अव धातारम्। अवानूचानमव शिष्यम्। अव पश्चात्तात्। अव पुरस्तात्। अवोत्तरात्तात्। अव दक्षिणात्तात्। अव चोर्ध्वात्तात्। अवधरात्तात्। सर्वतो मां पाहि पाहि समंतात्॥३॥ त्वं वाङ्मयस्त्वं चिन्मयः। त्वमानंदमयस्त्वं ब्रह्ममयः। त्वं सच्चिदानंदाद्वितीयोऽसि। त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोऽसि॥४॥ सर्वं जगदिदं त्वत्तो जायते। सर्वं जगदिदं त्वत्तस्तिष्ठाति। सर्वं जगदिदं त्वयि लयमेष्यति। सर्वं जगदिदं त्वयि प्रत्येति। त्वं भूमिरापोऽनलोऽनिलो नभः। त्वं चत्वारि वाक्पदानि॥५॥ त्वं गुणत्रयातीतः। त्वं देहत्रयातीतः। त्वं कालत्रयातीतः। त्वं मूलाधारस्थितोऽसि नित्यम्। त्वं शक्तित्रयात्मकः। त्वां योगिनो ध्यायन्ति नित्यम्। त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिंद्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुवः स्वरोम्॥६॥ गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरम्। अनुस्वारः परतरः। अर्धेन्दुलसितम्। तारेण ऋद्धम्। एतत्तवमनुस्वरूपम्। गकारः पूर्वरूपम्। अकारो मध्यमरूपम्। अनुस्वारश्चान्त्यरूपम्। बिंदुरुत्तररूपम्। नादः संधानम्। संहिता संधिः। सैषा गणेशविद्या। गणक ऋषिः। निचृद्गायत्रीच्छंदः। गणपतिर्देवता। ॐ गं गणपतये नमः॥७॥ एकदंताय विद्महे वक्रतुण्डाय धीमहि। तन्नो दंतिः प्रचोदयात्॥८॥ एकदंतं चतुर्हस्तं पाशमंकुशधारिणम्। रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्। रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम्। रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम्। भक्तानुकंपिनं देवं जगत्कारणमच्युतम्। आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम्। एवं ध्यायति यो नित्यं स योगी योगिनां वरः॥९॥ नमो व्रातपतये नमो गणपतये नमः। प्रमथपतये नमस्ते अस्तु। लंबोदरायैकदंताय विघ्नानाशिने शिवसुताय वरदमूर्तये नमः॥१०॥ एतदथर्वशीर्षं योऽधीते। स ब्रह्मभूयाय कल्पते। स सर्वविघ्नैर्बाध्यते। स सर्वतः सुखमेधते। स पंचमहापापात्प्रमुच्यते। सायमधीयानो दिवसकृतं पापं नाशयति। प्रातरधीयानो रात्रिकृतं पापं नाशयति। सायं प्रातः प्रयुंजानो अपापो भवति। सर्वत्राधीयानोऽपविघ्नो भवति। धर्मार्थकाममोक्षं च विंदति। इदमथर्वशीर्षमशिष्याय न देयं। यो यदि मोहाद्दास्यति स पापीयान् भवति। सहस्रावर्तनात् यं यं कामयते तं तमनेन साधयेत्। अनेन गणपतिमभिषिंचति। स वाग्मी भवति। चतुर्थ्यामश्नन्जपति स विद्यावान् भवति। इत्यथर्वणवाक्यम्। ब्रह्माद्यावरणं विद्यात्। न बिभेति कदाचनेति। यो दूर्वांकुरैर्यजति स वैश्रवणोपमो भवति। यो लाजैर्यजति स यशोवान्भवति। स मेधावान्भवति। यो मोदकसहस्रेण यजति स वांछितफलमवाप्नोति। यः साज्यसमिद्भिर्यजति स सर्वं लभते। अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति। सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमंत्रो भवति। महाविघ्नात्प्रमुच्यते। महादोषात्प्रमुच्यते। महापापात्प्रमुच्यते। स सर्वविद्भवति स सर्वविद्भवति। य एवं वेद इत्युपनिषत्॥ ॐ भद्रं कर्णेभिः। स्वस्ति नः। सहनाववतु। सहनौ भुनक्तु। सहवीर्यं करवावहै। तेजस्विनावधीतमस्तु। मा विद्विषावहै। ॐ शांतिः शांतिः शांतिः॥

← पिछला पाठ सभी श्री गणेश पाठ अगला पाठ →

पाठ की विधि

प्रातःकाल स्नान के बाद पूर्व या उत्तर दिशा की ओर मुख करके बैठें। दूर्वा, लाल पुष्प और मोदक अर्पित कर शुद्ध उच्चारण के साथ अथर्वशीर्ष का पाठ करें।

पाठ के लाभ

इसके नियमित पाठ से वाणी की शुद्धि, एकाग्रता और मानसिक शांति प्राप्त होती है तथा सभी प्रकार के संकटों से रक्षा होती है।