श्रीशनैश्चरस्तोत्र अस्य श्रीशनैश्चरस्तोत्रस्य । दशरथ ऋषिः शनैश्चरो देवता । त्रिष्टुप्छंदः । शनैश्चरप्रीत्यर्थे जपे विनियोगः । दशरथ उवाच । कोणोऽन्तको रौद्रयमोऽथ बभ्रुः कृष्णः शनिः पिङ्गलमन्दसौरिः । नित्यं स्मृतो यो हरते च पीडां तस्मै नमः श्रीरविनन्दनाय ॥१॥ सुरासुराः किंपुरुषा गणेन्द्रा गंधर्वविद्याधरपन्नगाश्च । पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय ॥२॥ नरा नरेन्द्राः पशवो मृगेन्द्रा वन्याश्च ये कीटपतंगभृंगाः । पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय ॥३॥ देशाश्च दुर्गाणि वनानि यत्र सेनानिवेशाः पुरपत्तनानि । पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय ॥४॥ तिलैर्यवैर्माषगुडान्नदानैर्लोहेन नीलाम्बरदानतो वा । प्रीणाति मंत्रैर्निजवासरे च तस्मै नमः श्रीरविनन्दनाय ॥५॥ प्रयोगकूले यमुनातटे च सरस्वतीपुण्यजले गुहायाम् । योगिनां ध्यानगतोऽपि सूक्ष्मस्तस्मै नमः श्रीरविनन्दनाय ॥६॥ अन्यप्रदेशात्स्वगृहं प्रविष्टस्त्वदीयवारे स नरः सुखी स्यात् । गृहाद् गतो यो न पुनः प्रयाति तस्मै नमः श्रीरविनन्दनाय ॥७॥ स्रष्टा स्वयंभूर्भुवनत्रयस्य त्राता हरीतो हरते पिनाकी । एकस्त्रिधा ऋग्यजुःसाममूर्तिस्तस्मै नमः श्रीरविनन्दनाय ॥८॥ शन्यष्टकं यः प्रयतः प्रभाते नित्यं सुपुत्रैः पशुबान्धवैश्च । पठेच्च सौख्यं भुवि भोगयुक्तं प्राप्नोति निर्वाणपदं परं सः ॥९॥ कोणस्थः पिङ्गलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः । सौरिः शनैश्चरो मन्दः पिप्पलादेन संस्तुतः ॥१०॥ एतानि दश नामानि प्रातरुत्थाय यः पठेत् । शनैश्चरकृता पीडा न कदाचिद् भविष्यति ॥११॥ इति श्रीशनैश्चरस्तोत्रं संपूर्णम् ॥
श्रीशनैश्चरस्तोत्र
नवग्रह · प्रमुख स्तोत्रे व कवच
परिचय एवं महत्व
श्रीशनैश्चरस्तोत्र (नवग्रह) सनातन परंपरा का एक अत्यंत श्रद्धापूर्ण पाठ है। प्रमुख स्तोत्रे व कवच के अंतर्गत नियमित रूप से इसका पाठ करने से मन को शांति और आध्यात्मिक ऊर्जा प्राप्त होती है।
पाठ की विधि
प्रातः या सायंकाल स्नान के पश्चात स्वच्छ आसन पर बैठकर नवग्रह के समक्ष दीपक प्रज्वलित करें और शुद्ध उच्चारण के साथ श्रीशनैश्चरस्तोत्र का पाठ करें।
पाठ के लाभ
भक्ति भाव से किया गया यह पाठ मानसिक एकाग्रता बढ़ाता है और घर-परिवार में सकारात्मक वातावरण का संचार करता है।